पाठ्यक्रम
गुरुकुल विद्यापीठस्य पाठ्यक्रम: छात्रभ्यः सद्गुरुमहाभागानां कुशल निर्देशने एवम्प्रकारेण निर्मितोस्ति यस्मिन् प्राचीन सांस्कृतिकज्ञानेन सहैव अर्वाचीन-आधुनिक समस्यां दूरीकरणाय तेषां शारीरिक-मानसिक-बौद्धिक आध्यात्मिक विकासमपि सम्यग्रूपेण भवितुं शक्नोति।
छात्राणां (आईक्यू) मानसिक स्तरम् (ईक्यू) ;भावनात्मक स्तरम् (एस क्यू) आध्यात्मिक स्तरम् (एक्यू) ;प्रतिकूलात्मक स्तरम् एतेषां सम्यग्ध्यात्वा तान् वेद-उपनिषद्-गीता-रामायणेन सह शिक्षा संस्थाभिः एवं विश्वविद्यालय द्वारा निश्चित पाठ्यक्रमानुसारेण शिक्षयन्ति। षट्कक्षातः अष्टकक्षा पर्यन्तं कक्षाः डॉ. गोस्वामी गिरिधारी लाल शास्त्री प्राच्यविद्या प्रतिष्ठान झण्डेवालान नवदेहल्या संबद्धा: सन्ति। छात्रान् राष्ट्रीय शिक्षण अनुसंद्धानस्य (एन.सी.आर.टी) पुस्तकानामनुकूल निम्नलिखितेषु विषयेषु शिक्षा दीयते।
हिन्दी
गणितम्
विज्ञानम्
सामाजिक विज्ञानम्
आङ्लभाषा
साहित्यम्
इतिहासम्
भारतीयेतिहासं व्याकरणञ्च
नवम कक्षातः द्वादश कक्षा पर्यन्तं कक्षाः सम्पूर्णानन्द संस्कृत विश्वविद्यालय वाराणसी उत्तर प्रदेशेन संबद्धा: सन्ति। छात्रान् निम्नलिखित विषयाः पाठयन्ति-
साहित्यम्
व्याकरणम्
आंग्लभाषा ऐच्छिकी अनिवार्या च
सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य परीक्षायां कदापि कोऽपि छात्र: अनुत्तीर्ण: नाभवत्। सर्वे श्रेष्ठैः अङ्कै: उत्तीर्णाः भवन्ति।
गुरुकुलस्य दिनचर्या :-
गुरुकुले छात्राणां एका निर्धरिता दिनचर्यास्ति यस्यान्तर्गते
प्रातः काले सार्ध चतुर्वादने जागरणं
सपाद पञ्चवादने योगासन-प्राणायामं,
पादोन सप्त वादने यज्ञं
तदुपरान्त प्रातराशं एवञ्च विंशत्यधिक अष्टवादनतः सार्ध द्विवादन पर्यन्तं सैद्धान्तिकं पठन-पाठनं प्रचलति।
सार्ध त्रिवादनतः सार्ध पञ्चवादन पर्यन्तं जूडो कर्राटे संगीतादीनां कक्षाः प्रचलन्ति
तत्पश्चात् सार्ध पञ्चवादनतः सार्ध षड्वादन पर्यंतं क्रीडा भवति
सार्ध षड्वादनतः सार्ध सप्त वादनपर्यन्तं संध्यावन्दनं आरार्तिक्यंञ्च
तदुपरान्त रात्रिभोजनं भोजनान्ते परिभ्रमणं,
सार्ध अष्ट वादनतः दश वादन पर्यंत स्वाध्याय: तत: रात्रि प्रार्थनां च कृत्वा स्वपन्ति छात्राः।
भ्रमणं एवं अतिरिक्ता: शैक्षणिका: गतिविधय :-
गुरुकुलस्य छात्राणां सर्वाङ्गीणविकासाय तान् समये-समये तीर्थस्थलानां ऐतिहासिक स्थलानां पर्यटनमपि यथा-हरिद्वार-ऋषिकेश-मथुरा-वृन्दावन-आगरादीनां स्थलानां अनेकशः परिभ्रमणं कारयन्ति। वर्षे वारद्वयं छात्रान् देहल्याः ऐतिहासिक-सांस्कृतिक-धार्मिक स्थलान् विज्ञान केंद्रञ्च दर्शनाय व्यवस्था संस्था द्वारा भवति।